॥ श्रीहरिः ॥
श्लोक 5.23.6
केचनैतज्ज्योतिरनीकं शिशुमारसंस्थानेन भगवतो वासुदेवस्य योगधारणायामनुवर्णयन्ति॥ ४॥ यस्य पुच्छाग्रेऽवाक्शिरसः१ कुण्डलीभूतदेहस्य ध्रुव उपकल्पितस्तस्य लाङ्गूले प्रजापतिरग्निरिन्द्रो धर्म इति पुच्छमूले धाता विधाता च कट्यां सप्तर्षयः। तस्य दक्षिणावर्तकुण्डलीभूतशरीरस्य यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्युपकल्पयन्ति दक्षिणायनानि तु सव्ये। यथा शिशुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यवयवाः समसंख्या भवन्ति। पृष्ठे त्वजवीथी आकाशगङ्गा चोदरतः॥ ५॥ पुनर्वसुपुष्यौ दक्षिणवामयोः२ श्रोण्योरार्द्राश्लेषे च दक्षिणवामयोः पश्चिमयोः पादयोरभिजिदुत्तराषाढे दक्षिणवामयोर्नासिकयोर्यथासंख्यं श्रवणपूर्वाषाढे दक्षिणवामयोर्लोचनयोर्धनिष्ठा मूलं च दक्षिणवामयोः कर्णयोर्मघादीन्यष्ट नक्षत्राणि दक्षिणायनानि वामपार्श्ववङ्क्रिषु३ युञ्जीत तथैव मृगशीर्षादीन्युदगयनानि४ दक्षिणपार्श्ववङ्क्रिषु५ प्रातिलोम्येन प्रयुञ्जीत शतभिषाज्येष्ठे स्कन्धयोर्दक्षिणवामयोर्न्यसेत्॥ ६॥ उत्तराहनावगस्तिरधराहनौ६ यमो मुखेषु चाङ्गारकः शनैश्चर उपस्थे बृहस्पतिः ककुदि वक्षस्यादित्यो हृदये नारायणो मनसि चन्द्रो नाभ्यामुशना स्तनयोरश्विनौ बुधः प्राणापानयो राहुर्गले केतवः सर्वाङ्गेषु रोमसु सर्वे तारागणाः॥ ७॥✎ 953
punarvasupuṣyau dakṣiṇavāmayoḥ śroṇyorārdrāśleṣe ca dakṣiṇavāmayoḥ paścimayoḥ pādayorabhijiduttarāṣāḍhe dakṣiṇavāmayornāsikayoryathāsaṃkhyaṃ śravaṇapūrvāṣāḍhe dakṣiṇavāmayorlocanayordhaniṣṭhā mūlaṃ ca dakṣiṇavāmayoḥ karṇayormaghādīnyaṣṭa nakṣatrāṇi dakṣiṇāyanāni vāmapārśvavaṅkriṣu yuñjīta tathaiva mṛgaśīrṣādīnyudagayanāni dakṣiṇapārśvavaṅkriṣu prātilomyena prayuñjīta śatabhiṣājyeṣṭhe skandhayordakṣiṇavāmayornyaset|| 6||
अर्थ
राजन्! इसके दाहिने और बायें कटितटोंमें पुनर्वसु और पुष्य नक्षत्र हैं, पीछेके दाहिने और बायें चरणोंमें आर्द्रा और आश्लेषा नक्षत्र हैं तथा दाहिने और बायें नथुनोंमें क्रमशः अभिजित् और उत्तराषाढ़ा हैं। इसी प्रकार दाहिने और बायें नेत्रोंमें श्रवण और पूर्वाषाढ़ा एवं दाहिने और बायें कानोंमें धनिष्ठा और मूल नक्षत्र हैं। मघा आदि दक्षिणायनके आठ नक्षत्र बायीं पसलियोंमें और विपरीत क्रमसे मृगशिरा आदि उत्तरायणके आठ नक्षत्र दाहिनी पसलियोंमें हैं। शतभिषा और ज्येष्ठा—ये दो नक्षत्र क्रमशः दाहिने और बायें कंधोंकी जगह हैं॥ ६॥✎ 472
टिप्पणियाँ
- १
प्रा० पा०—च्छ्राग्रेऽर्वाक्छिरसः।
- २
प्रा० पा०—योरार्द्राश्लेषे च।
- ३
प्रा० पा०—पार्श्ववक्षःसु।
- ४
प्रा० पा०—मृगशीर्षर्क्षादीन्यु०।
- ५
प्रा० पा०—क्षिणपार्श्वेषु प्राप्तिलोम्येन शतभिषाज्येष्ठे।
- ६
प्रा० पा०—उत्तरहनावगस्त्योऽधरहनौ यमो मुखे चा०।